|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.154. अध्यायः 154
Mahabharata - Shanti Parva - Chapter Topics
नारदेन शाल्मलिप्रति पर्वतादिभञ्जकेनापि वायुना तदीयशाखाया अप्यभञ्जने कारणप्रश्ने तेन साधिक्षेपमात्मशाखाभञ्जने वायोरशक्तिकथनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
नारद उवाच। 12-154-0x(5814)(71202)
बन्धुत्वादथवा सख्याच्छाल्मले नात्र संशयः।
कस्मात्त्वां रक्षते नित्यं भीमः सर्वत्रगोऽनिलः॥ 12-154-1(71203)
तद्भावं परमं वायोः शाल्मके त्वमुपागतः।
तवाहमस्मीति सदा येन रक्षति मारुतः॥ 12-154-2(71204)
न तं पश्याम्यहं वृक्षं पर्वतं वेश्म चेदृशम्।
यं न वायुबलाद्भग्नं पृथिव्यामिति मे मतिः॥ 12-154-3(71205)
त्वं पुनः कारणैर्नूनं रक्ष्यसे शाल्मले यथा।
वायुना सपरीवारस्तेन तिष्ठस्यसंशयम्॥ 12-154-4(71206)
शाल्मलिरुवाच। 12-154-5x(5815)
न मे वायुः सखा ब्रह्मन्न बन्धुर्मम नारद।
चिरं मे प्रीयते नैव येन मां रक्षतेऽनिलः॥ 12-154-5(71207)
मम तेजोबलं भीमं वायोरपि हि नारद।
कलामष्टादशीं प्राणैर्न मे प्राप्नोति मारुतः॥ 12-154-6(71208)
आगच्छन्परुषो वायुर्मया विष्टम्भितो बलात्।
भञ्जन्द्रुमान्पर्वतांश्च यच्चान्यत्स्थाणुजङ्गमम्॥ 12-154-7(71209)
स मया बहुशो भग्नः प्रभञ्जन्वै प्रभञ्जनः।
तस्मान्न विभ्ये देवर्षे क्रुद्धादपि समीरणात्॥ 12-154-8(71210)
नारद उवाच। 12-154-9x(5816)
शाल्मले विपरीतं ते दर्शनं नात्र संशयः।
न हि वायोर्बले नास्ति भूतं तुल्यबलं क्वचित्॥ 12-154-9(71211)
इन्द्रो यमो वैश्रवणो वरुणश्च जलेश्वरः।
नैतेऽपि तुल्या मरुतः किं पुनस्त्वं वनस्पते॥ 12-154-10(71212)
यश्च कश्चिदपि प्राणी चेष्टते शाल्मले भुवि।
सर्वत्र भगवान्वायुश्चेष्टाप्राणकरः प्रभुः॥ 12-154-11(71213)
एष चेष्टयते सम्यक्प्राणिनः सम्यगायतः।
असम्यगायतो भूयश्चेष्टते विकृतं नृषु॥ 12-154-12(71214)
स त्वमेवंविधं वायुं सर्वसत्वभृतां वरम्।
न पूजयसि पूज्यन्तं किमन्यद्वुद्धिलाघवात्॥ 12-154-13(71215)
असारश्चापि दुर्मेधाः केवलं बहु भाषसे।
क्रोधादिभिरवच्छन्नो मिथ्या वदसि शाल्मले॥ 12-154-14(71216)
मम रोषः समुत्पन्नस्त्वय्येवं संप्रभाषति।
ब्रवीम्येष स्वयं वायोस्तव दुर्भाषितं बहु॥ 12-154-15(71217)
चन्दनैः स्यन्दनैः शालैः सरलैर्देवदारुभिः।
वेतसैर्धन्वनैश्चापि ये चान्ये बलवत्तराः।
तैश्चापि नैवं दुर्बुद्धे क्षिप्तो वायुः कृतात्मभिः॥ 12-154-16(71218)
तेऽपि जानन्ति वायोश्च बलमात्मन एव च।
तस्मात्ते नावमन्यन्ते श्वसनं तरुसत्तमाः॥ 12-154-17(71219)
त्वं तु मोहान्न जानीपे वायोर्बलमनन्तकम्।
एवं तस्माद्गमिष्यामि सकाशं मातरिश्वनः॥ ॥ 12-154-18(71220)
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि चतुःपञ्चाशदधिकशततमोऽध्यायः॥ 154॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-154-2 न्यग्भावं परमं वायोरिति झ. पाठः॥ 12-154-5 परमेष्ठी तथा नैव येन रक्षति वानिल इति झ. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|